|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.86. अध्यायः 086
Mahabharata - Vana Parva - Chapter Topics
धौम्येन युधिष्ठिरंप्रति दक्षिणदिक्स्थनानातीर्थानुकीर्तनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
धौम्य उवाच। 3-86-0x(1995)(19631)
दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत।
विस्तरेण यथाबुद्धि कीर्त्यमानानि तानि वै ॥ 3-86-1(19632)
यस्यामाख्यायते पुण्या दिशि गोदावरी नदी।
बह्वारामा बहुजला तापसाचरिता शिवा ॥ 3-86-2(19633)
वेणा भीमरथी चैव नद्यौ पापभयापहे।
मृगद्विजसमाकीर्णे तापसालयभूषिते ॥ 3-86-3(19634)
राजर्षेस्तस् च सरिन्नृगस्य भरतर्षभ।
रम्यतीर्था बहुजला पयोष्णी द्विजसेविता ॥ 3-86-4(19635)
अपि चात्र महायोगी मार्कण्डेयो महायशाः।
अनुवंश्यां जगौ गाथां नृगस्य धरणीपतेः ॥ 3-86-5(19636)
नृगस् यजमानस्य प्रत्यक्षमिति नः श्रुतम्।
`मरुतः परिवेष्टारः सदस्याश्च दिवौकसः'॥ 3-86-6(19637)
पयोष्ण्यां यजमानस्य वाराहे तीर्थ उत्तमे।
उद्धृतं भूतलस्थं वावायुना समुदीरितम्।
पयोष्ण्या हरते तोयं पापमामरणान्तिकम् ॥ 3-86-7(19638)
स्वर्गादुत्तुङ्गममलं विषाणं यत्र शूलिनः।
स्वमात्मविहितं दृष्ट्वा मर्त्यः शिवपुरं व्रजेत् ॥ 3-86-8(19639)
एकतः सरितः सर्वा गङ्गाद्याः सलिलोच्चयाः।
पयोष्णी चैकतः पुण्या तीर्थेभ्यो हि मता मम ॥ 3-86-9(19640)
माठरस्य वनं पुण्यं बहुमूलफलं शिवम्।
यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ ॥ 3-86-10(19641)
प्रवेण्युत्तरपार्स्वे तु पुण्ये कण्वाश्रमे तथा।
तापसानामरण्यानि कीर्तितानि यथाश्रुति ॥ 3-86-11(19642)
वेदी शूर्पारके तात जमदग्नेर्महात्मनः।
रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत ॥ 3-86-12(19643)
अशोकतीर्थं तत्रैव कौन्ते य बहुलाश्रमम्।
अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर ॥ 3-86-13(19644)
कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ।
ताम्रपर्णी तु कौन्तेय कीर्तयिष्यामि तां शृणु ॥ 3-86-14(19645)
यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे।
गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत ॥ 3-86-15(19646)
शीततोयो बहुजलः पुण्यस्तात शिवश्च सः।
ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः ॥ 3-86-16(19647)
तत्र वृक्षतृणाद्यैश्च संपन्नः फलमूलवान्।
आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसहे गिरौ ॥ 3-86-17(19648)
वैडूर्यपर्वतस्तत्र श्रीमान्मणिमयः शिवः।
अगस्त्यस्याश्रमश्चैव बहुमूलफलोदकः ॥ 3-86-18(19649)
सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्यायतनानि च।
आश्रमान्सरितश्चैव सरांसि च नराधिप ॥ 3-86-19(19650)
चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत।
प्रभासं चोदधौ तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ 3-86-20(19651)
तत्र पिण्डारकं नाम तापसाचरितं शिवम्।
उज्जयन्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् ॥ 3-86-21(19652)
तत्र देवर्षिवीरेण नारदेनानुकीर्तितः।
पुराणः श्रूयते श्लोकस्तं निबोध युधिष्ठिर ॥ 3-86-22(19653)
पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते।
उज्जयन्ते स्म तप्ताङ्गो नाकपृष्ठे महीयते ॥ 3-86-23(19654)
`एष नारायणः श्रीमान्क्षीरार्णवनिकेतनः।
नागपर्यङ्कमुत्सृज्यह्यागतो मधुरां पुरीम्' ॥ 3-86-24(19655)
पुण्या द्वारवती तत्रयत्रासौ मधुसूदनः।
साक्षाद्देवः पुराणोसौ स हि धर्मः सनातनः ॥ 3-86-25(19656)
ये च कवेदविदो विप्रा ये चाध्यात्मविदो जनाः।
ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥ 3-86-26(19657)
पवित्राणां हि गोविन्दः पवित्रं परमुच्यते।
पुण्यानामपि पुण्योसौ मङ्गालानां च मङ्गलम्।
त्रैलोक्ये पुण्डरीकाक्षो देवदेवः सनातनः ॥ 3-86-27(19658)
अव्ययात्मा व्ययात्मा च क्षेत्रज्ञः परमेश्वरः।
आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ॥ 3-86-28(19659)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि षडशीतितमोऽष्यायः ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-86-5 अनुवंश्यां वंशानूरूपां तु नृगमात्रानुरूपाम् ॥ 3-86-13 अशोकतीर्थं मत्स्येष्विति ध. पाठः ॥ 3-86-15 महत् मोक्षफलम् ॥ 3-86-23 तप्ताङ्ग कृततपस्कः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|